30, April 2026

वैदिकसाहित्ये स्वराणां महत्त्वम्

Author(s): Arupananda Dash

Authors Affiliations:

Ph.D Scholar,

Department of Sanskrit,

Central University of Odisha 

DOIs:10.2018/SS/202604009     |     Paper ID: SS202604009


Abstract
Keywords
Cite this Article/Paper as
References
शोधसारः

वैदिक वाङ्मयाकाशे वेदाङ्गानां महत्वं सर्वोपरिः वर्तते। अस्माङ्कं वैदिकसाहित्य-जगति षड्वेदाङ्गानि सन्ति। तानि वेदाङ्गानि वेदपुरुषस्य अङ्गरुपेण परुकल्पितमस्ति इति। तेषु वेदाङ्गेषु शिक्षा वेदाङ्गं भवति अन्यतमम्। अतः शिक्षाग्रन्थषु प्रमुखपाणिनीयशिक्षायां कथितमस्ति शिक्षा घ्राणं तु वेदस्य इति। अस्य शिक्षावेदाङ्गस्य अङ्गवत् पुनः वर्ण-स्वर-मात्रा-वल-साम-मन्तानादिविलसन्ति। तेषु स्वरः भवति अन्यतमः सर्वोत्कृष्टश्च। वैदिकवाङ्मये स्वरनियमः केवलवर्णोच्चारणं शैलीं न प्रदर्शयति, अपितु सः अर्थस्य आधारशिला वर्तते। उदात्त-अनुदात्त-स्वरित-भेदेन त्रयः स्वराः वैदिकमन्त्रेषु वैदिकवाङ्मयेषु शब्दशक्तिं संरक्षयन्ति। अतादृशि पाणिनीयशिक्षायां उल्लिखितमस्ति-उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः इति। अर्थभेदकत्वे स्वराणाम् अद्वितीयं स्थानम् अस्ति। यतः स्वराघातस्य अल्पदोषोऽपि अभीष्ट-फलस्य स्थाने विपरीतफलं जनयितुं शक्नोति। प्रातिशाख्यादिग्रन्थाः स्वराणां शुद्धोच्चारणस्य नियमान् सुदृढं कुर्वन्ति इति। अतः वैदिकस्वराः मन्त्रणां सार्थकतार्थम् अभिष्टफलप्राप्यर्थम् आनुष्ठानिकानां पूर्तये च अपरिहार्याः गुरुत्वपुर्णाः च सन्ति।

कुञ्जीशब्दाः- वैदिकस्वरः, वेदः, उदात्तः, अनुदात्तः, स्वरितः, अभिष्टफलं, प्रातिशाख्यम्, अर्थभेदः, मन्त्रशक्तिः, यज्ञ-कर्म।

Arupananda Dash (2026); वैदिकसाहित्ये स्वराणां महत्त्वम्, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 9,   Issue –  4,  Available on –   https://shikshansanshodhan.researchculturesociety.org/

1. छन्दपादौतु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षु र्निरुक्तं श्रोत्रमुच्यते।।

शिक्षा घ्राणं तु वेदस्य मुखं द्याकरणं स्मृतम्। तस्मात् साङ्गमधीतैव ब्रह्मलोके महियते।। (पाणिनीयशिक्षा- श्लोकः-४१-४२)।

2 . तत्रैव।

3. मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तं अर्थमाह।

स वाग्-वज्रं यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ (पाणिनीयशिक्षा- श्लोकः-५२)।

4. उदात्ते निषादगान्धारावनुदात्तः ऋषभ धैवतौ, स्वरितप्रभवा ह्येते षड्ज-मध्यम पञ्चमाः ॥ (तत्रैव- श्लोकः-१२)।

5 . अनुदात्तो हृदि ज्ञेयो मूर्धन्युदात्त उदाहृतः, स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥ (तत्रैव- श्लोकः-४८)।


Download Full Paper

Download PDF No. of Downloads:6 | No. of Views: 34