30, March 2026

पर्यावरणसंरक्षणे ऋषिपरम्परायाः योगदानम् ( Contribution of Rishi Tradition in Environmental Conservation)

Author(s): Dr. Amlan Acharya

Authors Affiliations:

Guest Faculty, Department of Sanskrit Studies, Hyderabad Central University, Hyderabad

DOIs:10.2018/SS/202603003     |     Paper ID: SS202603003


Abstract
Keywords
Cite this Article/Paper as
References

शोधसारः- भारतीयसंस्कृतौ प्राचीनऋषिपरम्परा न केवलम् आध्यात्मिकदर्शनपरिसीमितासीत्, अपि तु मानवप्रकृत्योः संतुलितसौहार्दजीवनमार्गं प्रशस्यति स्म। वेदेषु उपनिषत्सु स्मृतिग्रन्थेषु च पर्यावरणसंरक्षणचेतना स्पष्टरूपेण प्रतिपादिता दृश्यते, यत्र नद्यः मातृरूपेण, वृक्षाः देवतुल्याः, वनानि जीवने आधारभूतानि चेति मन्यन्ते। ऋषयः "वसुधैव कुटुम्बकम्" तथा "ऋत" इत्यस्य माध्यमेन सम्पूर्णसृष्टेः संरक्षणं मानवकर्तव्यं इति संदेशमददुः। यज्ञतपोव्रतोपासना इत्यादयः आध्यात्मिकप्रथाः पर्यावरणीयसंतुलनस्य साधनानि आसन्। वैदिकेषु यज्ञेषु अग्निवाय्वम्बुधरण्यादीनां पंचमहाभूतानां शुद्धिरक्षणं वैज्ञानिकदृष्ट्या विवृतं। अथर्ववेदे औषधिपादपानाम् संरक्षणं वर्ण्यते, ऋग्वेदे नद्यः वनानि च महत्त्वेन गीयन्ते।

एवं ऋषिपरम्परायाः संदेशः केवलं धर्ममोक्षपर्यन्तं नासीत्, अपितु पर्यावरणसन्तुलनं सततविकासं च प्रदर्शयति स्म। अद्य वर्तमानकाले प्रदूषणवृद्धेः प्रसङ्गे यदि वयं ऋषिणां परम्परामनुसरामः, तर्हि न केवलं पर्यावरणसंरक्षणं सम्भवति, अपि तु मानवजात्यै सन्तुलितं सामञ्जस्यपूर्णं च जीवनमार्गं सुनिश्चितुं शक्यम्।

 

मुख्यशब्दाः -  पर्यावरणम्, वेदः, उपनिषद्, स्मृतिग्रन्थः, संरक्षणम्, सन्तुलनम् ।

Dr. Amlan Acharya (2026); पर्यावरणसंरक्षणे ऋषिपरम्परायाः योगदानम् ( Contribution of Rishi Tradition in Environmental Conservation), Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 9,   Issue –  3,  Available on –   https://shikshansanshodhan.researchculturesociety.org/


Download Full Paper

Download PDF No. of Downloads:1 | No. of Views: 19