30, March 2026

उपनिषत्सन्दर्भे उत्तररामचरितम्

Author(s): Chiranjit Mardi, Dr. Asheesh Kumar

Authors Affiliations:

1Research Scholar, Discipline of Sanskrit, School of Humanities, IGNOU, New Delhi

2Assistant Professor, Discipline of Sanskrit, School of Humanities, IGNOU, New Delhi

DOIs:10.2018/SS/202603009     |     Paper ID: SS202603009


Abstract
Keywords
Cite this Article/Paper as
References
शोधसारः बहुशास्त्राणां ज्ञातृणा भवभूतिना त्रीणि दृश्यकाव्यानि विरचितानि। एतेषु एव दृश्यकाव्येषु तस्य बहुशास्त्रज्ञत्वस्य परिचयः प्राप्यते। एतद्दृश्यकाव्ये पाठे अवगम्यते यत्, भवभूतिः उपनिषद्ग्रन्थान् सम्यगधीतवान् आसीत्। छान्दोग्य-तैत्तिरीय-बृहदारण्यकाद्युपनिषदां तात्त्विकविषयाः प्रसङ्गक्रमेण उत्तररामचरितमिति नाटके समाविष्टाः दृश्यन्ते। काव्यजगतः प्रकाशसदृशः नाट्यकारः अयं भवभूतिः नैकवारम् उपनिषदाधारितविषयान् स्वग्रन्थे उपस्थापितवान्। अस्मिन् नाटके उपनिषद्प्रसङ्गः बहुवारं समागतः। एतन्नाटकस्य चतुर्थाङ्के ‘असुर्या नाम ते लोकाः इत्येतादृशी पङ्क्तिः प्राप्यते। किञ्चित् परिवर्त्य उपस्थापिता उक्तरियम्  ईशावास्योपनिषदुक्तस्य मन्त्रांशस्य पुनरुक्तिवत् भाति। एतन्नाटकस्य द्वितीयाङ्के उपनिषदाधारितविषयाः प्रधानतया अभिव्याक्ताः दृश्यन्ते। अत्र ‘उद्गीथविदो वसन्ति- इत्यादिप्रयोगेन छान्दोग्योपनिषदः ‘ओमिति परब्रह्म स्मर्यते। इति त्रिगुणात्मकम् एकारक्षं ब्रह्मैव बोध्यते ‘उद्गीथ इत्यनेन पदेन। छान्दोग्योपनिषदि एतस्य स्पष्टोल्लेखः प्राप्यते- ‘ओमित्येतदक्षरमुद्गीथमुपासीत इति। एतस्मिन्नेव अङ्के दृश्यते यत् वाल्मीकेः शब्दब्रह्मज्ञाने प्रकाशे सति उपनिषद्प्रतिपादित-ब्रह्मविद्याविषयकः निर्देशः वाल्मीकये प्रदत्तः- “शब्दब्रह्मनस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय इति। “यत्रानन्दाश्च मोदाश्च इत्यत्र तैत्तिरीयोपनिषदः प्रभावः अवलोक्यते। अत्र यादृशः सुखः वर्णितः, तैत्तिरीयोपनिषदि अपि “आनन्दो ब्रह्मेति व्यजानात् इत्यादिना वाक्येन तादृशः आनन्दः सुखः वा वर्णितः। तैत्तिरीयोपनिषदुक्तस्य ब्रह्मलोकस्य उल्लेखोऽपि अत्र दृश्यते। एतदतिरिच्य “शिवास्ते पन्थानो देवयानाः,शाश्वतं पदम् इत्यादिभिः शब्दप्रयोगैः उपनिषद्प्रतिपादिताः विषयाः एव प्रकाशिताः भवन्ति। महाकवि भवभूतिः बहुशास्त्राणां ज्ञाता अस्ति इत्येतद्वक्तव्यं दृढीकरोति शोधपत्रमिदम्। तस्य आध्यात्मिकज्ञानगभीरता प्रतिपादिता अस्ति एतस्मिन् शोधपत्रे। वेद-वेदान्त-दर्शन-उपनिषदादिशास्त्राणां प्रमुखप्रतिपाद्यविषयोऽस्ति आध्यामिकचर्चेति। स्वकृतकाव्यस्य विषयविन्यासावसरे कवेः वेदादिशास्त्रज्ञत्त्वात्मकानि दृष्टान्तान्यमवलोक्यन्ते। काव्यिकः सन्नपि आध्यात्मिकचर्चायै उपनिषद्ग्रन्थान् कीदृशम् अध्ययनं कृतवान् आसीत् इत्येतद्विषयस्य  सम्यगोपास्थापनमस्ति एतच्छोधपत्रस्य उद्देश्यम्। उत्तररामचरिततः उपनिषदालोचितात्मिकाः उद्धृत्यः संगृह्य तासामुद्धृतीणां विश्लेषणे पूर्णप्रयाशः कृतोऽस्त्यत्र। अतः अस्मिन् लेखे विश्लेषणात्मकमध्ययनमनुसृतमिति स्पष्टम्। कवेः एकाधिकशास्त्रज्ञत्वस्य प्रकाशः अवलोक्यते उत्तररामचरितमिति नाटके, परन्तु विषयबाहुल्यात् एतेषां काव्येतरशास्त्राणां विचारः नैकशोधपत्रमपेक्षते। तेषु उपनिषदात्मकान् विषयान्नेव आधृत्य विस्तारितमिदं शोधपत्रम्। उत्तररामचरिते छान्दोग्यादि-चतसृणामुपनिषदामाध्यात्मिकविषयाः समाविष्टाः अनेनाध्ययनेन।  
कुटशब्दः- सीताशोकसन्तापम्, पञ्चवटी, ब्रह्मप्रापकानुकुलत्त्वम्, असूर्या, वैराजाः, कुशाग्रबुद्धिः।

Chiranjit Mardi, Dr. Asheesh Kumar (2026); उपनिषत्सन्दर्भे उत्तररामचरितम्, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 9,   Issue –  3,  Available on –   https://shikshansanshodhan.researchculturesociety.org/


Download Full Paper

Download PDF No. of Downloads:5 | No. of Views: 12