28, December 2025

श्रुतेः तन्त्रस्य च जगत्सृष्टेः वर्णनायां सांख्यतत्त्वस्य समर्थनम्

Author(s): Dr. Jyoti Kumari, & Rajibul Khan

Authors Affiliations:

  1. Assistant Professor,P.G Dept. of Sanskrit, Rajendra College, Chapra, Saran, Bihar
  2. Research Scholar, Dept. of Sanskrit, Jai Prakash University, Chapra, Saran, Bihar

DOIs:10.2018/SS/202512007     |     Paper ID: SS202512007


Abstract
Keywords
Cite this Article/Paper as
References

शोधसारः  सांख्यदर्शने जगत्सृष्टेः वर्णनायां पञ्चविंशतितत्त्वानामालोचनामस्ति। अस्य कारणं अन्वेषणं कृत्वा दृश्यते यत्, चैतन्यः जडश्च अर्थात् पुरुषः प्रकृतिश्च इत्येतत् तत्त्वद्वयं मौलिकतत्त्वरूपेण गृहीतम्। चैतन्यस्वरूपपुरुषः नित्यः, शुद्धः, निर्विकारः कूटस्थश्च इत्येतत् सिद्धान्तं स्वीकृत्य सांख्यशास्त्रं उपनिषदोक्तस्य ब्रह्मणः परमात्मनः वा स्वरूपेण सह पुरुषस्य ऐक्यं प्रतिपादयति। अत एव मन्यते यत्, उपनिषदोक्तब्रह्मणः परमात्मनः वा धारणा सांख्यमतस्योपरि विशेषरूपेण प्रभावं व्यस्तर्यते। अपरस्यां दिशि, तन्त्रोक्तजडवर्गस्य अर्थात् प्रकृतेः आरभ्य अन्यप्राकृतिकवस्तुसमूहस्य धारणा अपि सांख्यमते गृहीता। तन्त्रे अविद्या, माया इत्यादयः पृथक्तत्त्वरूपेण उल्लिखिताः। परन्तु दार्शनिकपद्धतौ युक्तिपरिशीलितविचार्य्येण सांख्यशास्त्रं अविद्यादीन् बुद्धितत्त्वस्य अन्तर्भुक्तं कृत्वा तन्त्रोक्तपदार्थतत्वानां संख्या ह्रस्यते। श्रुतौ एकं ब्रह्म एव पारमार्थिकसत्यरूपेण स्वीक्रियते। परन्तु तन्त्रस्य परशिवः चैतन्यस्वरूपं तथा सत्त्वं, रजः, तमः इति त्रिगुणात्मिका प्रकृतिः जडस्वरूपा। एतत्सिद्धान्तं स्वीकृतात् चैतन्यः जडश्चेति द्वैतसत्ता निर्धार्य्यते। व्यवहारिकजीवजगता सह संहतिं कृत्वा सांख्यशास्त्रे जडः चैतन्यश्चेति द्वयस्य यौक्तिकतां स्वीकृतात् तन्त्रमतस्य प्रभावः यथा सुपरिस्फुटः, तथैव परशिवः, ईश्वरः जीवश्च इति विभिन्नानि तत्त्वानि एकेन चेतनपुरुषरूपेण स्वीकार्य्य श्रुत्योक्तस्य सिद्धान्तस्य प्रभावोऽपि परिस्फुटः। अतः प्राचीनकाले श्रुतिमतं तन्त्रमतञ्च प्रधानरूपेण प्रचलितमासीत् तथापि सांख्यमते उभययोः मतयोः प्रभावः परिस्फुटः भवति।

कुटशब्दाः  अविद्या, कूटस्थ, पुरुषः, परशिवः, प्रकृति, परमात्मा, ।

Dr. Jyoti Kumari, Rajibul Khan (2025) श्रुतेः तन्त्रस्य च जगत्सृष्टेः वर्णनायां सांख्यतत्त्वस्य समर्थनम्, Shikshan Sanshodhan : Journal of Arts, Humanities and Social Sciences,      ISSN(o): 2581-6241,  Volume – 8,   Issue –  12,  Pp.40-44.       Available on –   https://shikshansanshodhan.researchculturesociety.org/


Download Full Paper

Download PDF No. of Downloads:6 | No. of Views: 43